29/10/2023
चक्रवर्तिस्नुषा रामपत्नी स्मृताऽहं विदेहात्मजा बान्धवैः संवृता ।
साम्प्रतं तावदेकाकिनीह स्थिता
हन्त ! रक्षोऽधिपेनाऽनिशं धर्षिता ।।१।।
नैव कश्चित् सहायः क्वचित् दृश्यते,
राक्षसीभिर्मुहुःतर्ज्यमानाऽऽहता।
अस्त्यरित्रं तनुत्यागरूपं वरम् पारमेतुं व्यथासागरं दुस्तरम्।।२।।
उद्भिजोऽहं शुभे! भूमिजे! सोदरो,
रक्षणायोद्यतोऽस्म्यत्र लङ्केश्वरात्।
किं विजानासि मां सुन्दरं शाद्वलं
भूमिपुत्रं स्वकीयं प्रियं भ्रातरम्।।३।।
दूयसे मन्यमानाऽसहायां कथं
पश्य शोभावहान् शाखिनः श्यामलान्।
अग्रतःसंस्थितान् पृष्ठतः संस्थितान्
पार्श्वतः शोभितान् सर्वतः प्रोद्भवान्।।४।।
अस्ति शोकाऽपहारी ह्यशोकःतरुः,
स्निग्धपत्रो बृहच्छायदःशोभनः।
अम्बया ये प्रसूताःपृथिव्याऽखिलाः,
तत्पराःरक्षितुं त्वामिमे पादपाः।।५।।
नैव किञ्चित् त्वया खाद्यते
पीयते,
ज्ञायतेऽस्माभिरत्र स्थितैः संततम्।
गन्धवाहे वयं स्थापयामोऽमितं
पुष्टिदं तुष्टिदं शक्तिदं भोजनम्।।६।।
संलपेच्चेद् दुरात्मा कदर्याञ्चितां,
वाचमुग्रामनौचित्यपूर्णां बत।
रावणं भर्त्समाना भवेः
सुस्थिरा,🎋
रक्षकः सन्नहं तावदग्रे स्थितः।।७।।
या शिरोभूषणत्वेन तिस्रः जटाः साधयन्ती समायाति साऽमानवी ।
मानवीवाऽऽलपन्ती महाऽऽश्चर्यदम्
स्वप्नजातं शुभं त्वत्कृते हर्षदम्।
।८।।उत्सुको रक्षितुं त्वां चतुष्पात् पशुः
पक्षिणोऽप्यम्बरादीक्षमाणा अहा!
हन्त! साह्यं विधातुं नरे दुर्लभे
वानरः शिंशपा- पल्लवाऽन्तर्हितः।।९।।
क्रन्दतां नैव सीते! धरित्रीसुते!
ते सहायो भवेदेष शाखामृगः🐒।
अग्निसात्कर्तुमेवोपविष्टःतरौ🌳
राक्षसानामघौघं 🔥क्षणाऽभ्यन्तरे।।१०।।