28/02/2026
*अखिलभारतीयशलाकापरीक्षायां विजयिनः*
संस्कृतभारती-उत्तरप्रदेशन्यासः, काशी एवञ्च श्रीजयरामब्रह्मचर्याश्रमः, देहली
इत्यनयोः संयुक्ततत्त्वावधानेन श्रीजयराम-ब्रह्मचर्याश्रमः, हरिनगरम्, मथुरामार्गः, नवदेहली इत्यत्र 22.02.2026 दिनाङ्के आयोजितायाम् अखिलभारतीयाशलाकापरीक्षायाम् (२०२५-२०२६) आन्ध्रप्रदेशप्रान्तस्य पक्षतः -
1. श्रीमान् मु.चन्द्रमौलिः वेदान्तपरिभाषाविषयकशलाकापरीक्षायां प्रथमं स्थानमवाप्नोत् ।
2 .श्रीमान् विश्वः खजुरिया सूर्यसिद्धान्तविषयकशलाकापरीक्षायां प्रथमं स्थानमवाप्नोत् ।
3 . श्रीमान् रा.सु.सेतुरामः मीमांसाशास्त्रे अर्थसंग्रहविषयकशलाकापरीक्षायां तृतीयं स्थानमवाप्नोत् ।
4.श्रीमान् रा.आदित्यः न्यायसिद्धान्तमुक्तावलीविषयकशलाकापरीक्षायां तृतीयं स्थानमवाप्नोत् ।
पुरस्कृताः छात्राः पदकं प्रमाणपत्रं धनराशिं च प्राप्तवन्तः । संस्कृतभारत्याः आन्ध्रप्रदेशप्रान्तस्य अध्यक्षः, विद्वत्परिषदः प्रमुखः आचार्यः शिवरामभट्टमहोदयः, जनपदप्रचारप्रमुखः डा. उदयन हेगडे Udayana Hegde
अन्ये च पुरस्कृतान् छात्रान् अभ्यनन्दन् ।