Nitya Pooja Vidhi

Nitya Pooja Vidhi

Share

Nitya Pooja Vidhi | नित्य पूजा विधी

19/03/2026

नूतनसंवत्सरस्तोत्रम् l

आरब्धमुषःकाले च
नूतनं संवत्सरमिदम् l
स्वागतं तस्य हर्षेण
सोत्साहेन च कुर्महे ll१ll

यशस्करं तुष्टिकरं
पुष्टिकरं शुभङ्करम् l
भवेत् संवत्सरमिदम्
सर्वमङ्गलकारकम् ll२ll

धनधान्यकरं चैव
तथा पर्जन्यकारकम् l
सस्यपूर्णं सुफलञ्च
स्वास्थ्यकरमपि भवेत् ll३ll

विजयकरं शान्तिपूर्णं
क्रान्तिपूर्णं तथैव च l
क्षोभरहितं लोभरहितं
सर्वक्षेमकरं भवेत् ll४ll

रचितं स्तोत्रमिदमत्र
भवेत् मङ्गलकारकम् l
श्रद्धया यदि पठितं चेत्
भवेत् कल्याणकारकम् ll५ll

शुभं भवतु l

स्तोत्रकारः -

सञ्जयः वि. रानडे
संस्कृत-कीर्तनकारः
संस्कृत-अध्यापकः
संस्कृत-सुभाषितकारः च l
बोरीवली, मुम्बई l

10/03/2026

ॐ गजाननं भूंतागणाधि सेवितम्,

कपित्थजम्बू फलचारु भक्षणम्।

उमासुतम् शोक विनाश कारकम्,

नमामि विघ्नेश्वर पादपंकजम्॥

02/03/2026

होलिका स्तोत्र

होळी दहनाच्या वेळी किंवा होळी दहनानंतर आणि तीन किंवा पाच प्रदक्षिणा केल्यानंतर, हात जोडून होलिकेला नमस्कार करावा आणि होलिका स्तोत्र पठण करावे.

ॐ महाज्वालाय विद्महे अग्निदेवाय धीमहि। तन्नो अग्निः प्रचोदयात्।

पापं तापं च दहनं कुरु कल्याणकारिणि |
होलिके त्वं जगद्धात्री होलिकायै नमो नमः ||
होलिके त्वं जगन्माता सर्वसिद्धिप्रदायिनी |
ज्वालामुखी दारूणा त्वं सुखशान्तिप्रदा भव ||
वन्दितासि सुरेन्द्रेण ब्रह्मणा शंकरेण च ।
अतस्त्वं पाहिनो देवि भूते भूतिप्रदा भव ||
अस्माभिर्भय सन्त्रस्तैः कृत्वा त्वं होलि बालिशैः |
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव ||
त्वदग्नि त्रिः परिक्रम्य गायन्तु च हसंतु च ।
होलिके त्वं जगद्धात्री होलिकायै नमो नमः ||
होलिके त्वं जगन्माता सर्वसिद्धिप्रदायिनी |
ज्वालामुखी दारूणा त्वं सुखशान्तिप्रदा भव ||
वन्दितासि सुरेन्द्रेण ब्रह्मणा शंकरेण च |
अतस्त्वं पाहिनो देवि भूते भूतिप्रदा भव ||
अस्माभिर्भय सन्त्रस्तैः कृत्वा त्वं होलि बालिशैः |
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव ||
त्वदग्नि त्रिः परिक्रम्य गायन्तु च हसंतु च |
जल्पन्तु स्वेछ्या लोकाः निःशङ्का यस्य यन्मतम्
ॐ नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय दीप्तिरूपाय सर्वतो रक्ष रक्ष मां महाबलाय नमः।
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय पराय परम पुरूषाय परमात्मने परकर्म मंत्र यंत्र औषध अस्त्र शस्त्राणि संहर संहर मृत्योर्मोचय मोचय ओम नमो भगवते सुदर्शनाय दीप्ते ज्वालादित्याय ,सर्वदिक् क्षोभण कराय हूं फट् ब्रहणे परं ज्योतिषे नमः।

ॐ नमो भगवते सुदर्शनाय वासुदेवाय, धन्वंतराय अमृतकलश हस्ताय, सकला भय विनाशाय, सर्व रोग निवारणाय त्रिलोक पतये, त्रिलोकीनाथाय ॐ श्री महाविष्णु स्वरूपाय ॐ श्रीं ह्मीं ऐं औषधि चक्र नारायणाय फट्!!
ॐ ऐं ऐं अपराजितायै क्लीं क्लीं नमः।
ॐ श्रीं ह्रीं क्लीं हूं हूं त्रैलोक्यमोहन विष्णवे नमः।
ॐ त्रैलोक्यमोहनाय च विदमहे आदिकामदेवाय धीमहि
तन्नो विष्णु: प्रचोदयात्।
ॐ तेजोरूपाय च विदमहे विष्णु पत्न्यै धीमहि तन्नो;
श्री: प्रचोदयात्।

#होलिका #स्तोत्र

02/03/2026

होळीच्या दिवशी करायचा उपाय

होळीच्या दिवशी एक नारळ हातात घेऊन (शेंडी आपल्या शरीराच्या विरुद्ध दिशेने धरुन) सबंध घरातून (टॉयलेट्स वगळता) फिरवून तसाच घराबाहेर न्यावा आणि होळीच्या अग्नीत दहन करावा.

नारळ फिरवत असताना मनातल्या मनात खालील मंत्र म्हणावा.

“ॐ सर्वाबाधा-विनिर्मुक्तो, धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन्
भविष्यति न संशयः।।”

आज २०२६ च्या होळीच्या दिवशी रात्री ८.१५ ते रात्री ९.४७ या काळात हे कर्म करावे.

#होळी

28/02/2026

ॐ काकध्वजाय विद्महे
खड्गहस्ताय धीमहि
तन्नो मन्दः प्रचोदयात

#शनिमंत्र

24/02/2026

पूर्णब्रह्म स्तोत्रं

पूर्णचन्द्रमुखं निलेन्दु रूपम्

उद्भाषितं देवं दिव्यं स्वरूपम्

पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवम्

पिता माता बंधु त्वमेव सर्वम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥१॥





कुंचितकेशं च संचित्वेशम्

वर्तुलस्थूलनयनं ममेशम्

पीनकनीनिकानयनकोशम्

आकृष्ट ओष्ठं च उत्कृष्ट श्वासम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ २ ।।





नीलाचले चंचलया सहितम्

आदिदेव निश्चलानंदे स्थितम्

आनन्दकन्दं विश्वविन्दुचंद्रम्

नंदनन्दनं त्वं इन्द्रस्य॒ इन्द्रम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ३ ॥





सूष्टिस्थितिप्रलयसर्वमूलं

सूक्ष्मातिसुक्ष्मं त्वं स्थूलातिस्थूलम्

कांतिमयानन्तं अन्तिमप्रान्तं

प्रशांतकुन्तलं ते मूर्त्तिमंतम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।। ४ ।।





यज्ञतपवेदज्ञानात् अतीतं

भावप्रेमछंदे सदावशित्वम्

शुद्धात् शुद्धं त्वं च पूर्णात् पूर्णं

कृष्ण मेघतुल्यं अमूल्यवर्णं

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥५॥





विश्वप्रकाशम् सर्वक्लेशनाशम्

मन बुद्धि प्राण श्वासप्रश्वासम्

मत्स्य कूर्म नृसिंह वामनः त्वम्

वराह राम अनंतः अस्तित्वम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ६॥





ध्रुवस्य विष्णु त्वं भक्तस्य प्राणम्

राधापति देव हे आर्त्तत्राणम्

सर्व ज्ञान सारं लोक आधारम्

भावसंचारम् अभावसंहारम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।।७।।





बलदेवसुभद्रापार्श्वे स्थितम्

सुदर्शनसँगे नित्य शोभितम्

नमामि नमामि सर्वांग देवम्

हे पूर्णब्रह्म हरि मम सर्वम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ८॥





कृष्णदासहृदि भाव संचारम्

सदा कुरु स्वामी तव किंकरम्

तब कृपा बिन्दु हि एक सारम्

अन्यथा हे नाथ सर्व असारम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्

जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।।o।।



॥ इति पूर्णब्रह्म स्तोत्रं सम्पूर्णम् ।।

#जगन्नाथस्वामी #पूर्णब्रह्मस्तोत्रं

21/02/2026

Maruti Stotra (मारुती स्तोत्र | श्री हनुमान स्तोत्रम)

भीमरूपी महारुद्रा, वज्र हनुमान मारुती।
वनारी अंजनीसूता, रामदूता प्रभंजना ।।

महाबळी प्राणदाता, सकळां उठवीं बळें ।
सौख्यकारी शोकहर्ता, धूर्त वैष्णव गायका ।।दिनानाथा हरीरूपा, सुंदरा जगदंतरा।
पाताळ देवता हंता, भव्य सिंदूर लेपना ।।

लोकनाथा जगन्नाथा, प्राणनाथा पुरातना ।
पुण्यवंता पुण्यशीला, पावना परतोषका ।।

ध्वजांगे उचली बाहू, आवेशें लोटिला पुढें ।
काळाग्नी काळरुद्राग्नी, देखतां कांपती भयें ।।

ब्रह्मांड माईला नेणों, आवळें दंतपंगती।
नेत्राग्नी चालिल्या ज्वाळा, भृकुटी त्राहिटिल्या बळें ।।

पुच्छ तें मुरडिलें माथां, किरीटी कुंडलें बरीं।
सुवर्णकटीकासोटी, घंटा किंकिणी नागरा ।।

ठकारे पर्वताऐसा, नेटका सडपातळू।
चपळांग पाहतां मोठें, महाविद्युल्लतेपरी ।।

कोटिच्या कोटि उड्डाणें, झेपावे उत्तरेकडे ।
मंद्राद्रीसारिखा द्रोणू, क्रोधे उत्पाटिला बळें ।।

आणिता मागुता नेला, गेला आला मनोगती ।
मनासी टाकिलें मागें, गतीस तूळणा नसे ।।

अणूपासोनि ब्रह्मांडा, येवढा होत जातसे।
तयासी तुळणा कोठें, मेरुमंदार धाकुटें ।।

ब्रह्मांडाभोंवते वेढे, वज्रपुच्छ घालूं शके।
तयासि तूळणा कैचीं, ब्रह्मांडीं पाहतां नसे ।।

आरक्त देखिलें डोळां, गिळीलें सूर्यमंडळा ।
वाढतां वाढतां वाढे, भेदिलें शून्यमंडळा ।।

धनधान्यपशुवृद्धी, पुत्रपौत्र समग्रही ।
पावती रूपविद्यादी, स्तोत्र पाठें करूनियां ।।

भूतप्रेतसमंधादी, रोगव्याधी समस्तही ।
नासती तूटती चिंता, आनंदें भीमदर्शनें ।।

हे धरा पंधराश्लोकी, लाभली शोभली बरी।
दृढदेहो निसंदेहो, संख्या चंद्रकळागुणें ।।

रामदासी अग्रगण्यू, कपिकुळासी मंडण।
रामरूपी अंतरात्मा, दर्शनें दोष नासती ।।

।। इति श्रीरामदासकृतं संकटनिरसनं मारुतिस्तोत्रं संपूर्णम् ।।

#भीमरूपीमहारुद्रा #भीमरूपी_महारुद्रा #मारुतीस्तोत्र

18/02/2026

श्री वामन स्तोत्र

अदितिरुवाच ।

नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन ।
सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ 1 ॥

नमस्ते बहुरूपाय अरूपाय नमो नमः ।
सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2 ॥

नमस्ते लोकनाथाय परमज्ञानरूपिणे ।
सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ 3॥

यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः ।
तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4 ॥

यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः ।
तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5 ॥

यस्य़ावलोकनं चित्रं मायोपद्रववारणं ।
जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ 6 ॥

यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः ।

करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7 ॥

यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः ।
अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥ 8 ॥

यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसुनिष्ठितं ।
नमामि यज्ञफलदं यज्ञकर्मप्रभोदकम् ॥ 9 ॥

अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ 10 ॥

ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः ।

न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ 11 ॥

हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः ।

प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ 12 ॥

यन्मुखाद्ब्राह्मणो जातो बाहुभ्य़ः क्षत्रियोऽजनि ।

तथैव ऊरुतो वैश्याः पद्भ्यां शूद्रो अजायत ॥ 13 ॥

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।

मुखादिन्द्रश्चाऽग्निश्च प्राणाद्वायुरजायत ॥ 14 ॥

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।

त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ 15 ॥

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।

गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥ 16 ॥

त्वमेव जगतामीशो यन्नामास्ति परात्परः ।

त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ 17 ॥

इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः ।

उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ 18 ॥

अनुग्राह्यास्मि देवेश हरे सर्वादिकारण ।

अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ 19 ॥

अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर ।

तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ 20 ॥

तथापि तव वक्ष्यामि यन्मे मनसि वर्तते ।

वृथापुत्रास्मि देवेश रक्षोभिः परिपीडिता ॥ 21 ॥

एतन्न हन्तुमिच्छामि मत्सुता दितिजा यतः ।

तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ 22 ॥

इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः ।

उवाच हर्षयन्साध्वीं कृपयाऽभि परिप्लुतः ॥ 23 ॥

श्री भगवानुवाच ।

प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव ।

यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ 24 ॥

त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः ।

तेषां पुत्रो धनं सम्पन्न हीयन्ते कदाचन ॥ 25 ॥

अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभं ।

|| इति श्रीपद्मपुराणे श्री वामन स्तोत्र ||

#श्रीवामनस्तोत्र #वामनस्तोत्र

14/02/2026

मारुति स्तोत्रम्

ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय।
प्रतापवज्रदेहाय। अंजनीगर्भसंभूताय।
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय।
भूतग्रहबंधनाय। प्रेतग्रहबंधनाय। पिशाचग्रहबंधनाय।
शाकिनीडाकिनीग्रहबंधनाय। काकिनीकामिनीग्रहबंधनाय।
ब्रह्मग्रहबंधनाय। ब्रह्मराक्षसग्रहबंधनाय। चोरग्रहबंधनाय।
मारीग्रहबंधनाय। एहि एहि। आगच्छ आगच्छ। आवेशय आवेशय।
मम हृदये प्रवेशय प्रवेशय। स्फुर स्फुर। प्रस्फुर प्रस्फुर। सत्यं कथय।
व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन
शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन। अमुकं मे वशमानय।
क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय।

श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय
चूर्णय चूर्णय खे खे
श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु
ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा

विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु।
हन हन हुं फट् स्वाहा॥
एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति॥
इति श्रीमारुतिस्तोत्रं संपूर्णम्॥

#श्रीमारुतिस्तोत्र

12/02/2026

मृत्युञ्जय महाविष्णु स्तोत्र (Mrityunjaya Mahavishnu Stotra)

ॐ नमो भगवते मृत्युंजय महाविष्णवे अमृतसंजीवनाय विराट् पुरुषाय सर्ववयापकाय ॐ।
ततो विष्ण्वर्पितमना मारकण्डेयो महामतिः
तुष्टाव प्रणतो भूत्वा देवदेव जनार्दनम्।
विष्णुनैवोपदिष्टं तु स्तोत्रं कर्णे महामनाः
सम्भावितेन मनसा तेन तुष्टाव माधवम्।।

नारायणं सहस्राक्षं पद्मनाभं पुरातनम्।
प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति।।

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्।
केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम्।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम्।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम्।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्।
माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

भूतात्मानं महात्मानं जगद्योनिमयोनिजम्।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।।

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः।
अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः।।

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम्।।

मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम्।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह।।

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः।।

हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम्।
सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव।।

#महाविष्णुस्तोत्र #महाविष्णु #स्तोत्र

05/02/2026

कर्पूर आरती मन्त्रः

श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १
लक्ष्मीचरणलाक्षाङ्कसाक्षिश्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ २॥

समस्तजीवमोक्षाय श्रीरङ्गपुरवासिने ।
कन्द्वादमुनिपूज्याय श्रीनिवासाय मङ्गलम् ॥ ३॥

अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ ४॥

कमलाकुच कस्तूरी कर्दमाङ्गित वक्षसे ।
यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥ ५॥

मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ ६॥

श्रीमद्गोपालबालाय गोदाभीष्टप्रदायिने ।
श्रीसत्यासहिताथास्तु कृष्णदेवाय मङ्गलम् ॥ ७॥

नीलाचलनिवासाय नित्याय परमात्मने ।
सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥ ८॥

आजन्मनः षोडशाब्दं स्तन्याद्यनभिलाषिणे ।
श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥ ९॥

श्रीमत्यै विष्णुचित्तार्यमनोनन्दनहेतवे ।
नन्दनन्दनसुन्दर्यै गोदायै नित्य मङ्गलम् ॥ १०॥

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ११॥

मङ्गलाशासन परैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १२॥

श्रीमते रम्यजामात्रे मुनीन्द्राय महात्मने
श्रीरङ्गवासिने भूयात् नित्यश्रीर्नित्यमङ्गलम् ॥ १३॥

इति कर्पूर आरती मन्त्रः ।
इति मुक्तकमङ्गलं समाप्तम्

# कर्पूर_आरती

29/01/2026

वेङ्कटेशभुजङ्गम्

मुखे चारुहासं करे शङ्खचक्रं गले रत्नमालां स्वयं मेघवर्णम् ।
तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ १॥

सदाभीतिहस्तं मुदाजानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशम् ।
जगत्पादपद्मं महत्पद्मनाभं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ २॥

अहो निर्मलं नित्यमाकाशरूपं जगत्कारणं सर्ववेदान्तवेद्यम् ।
विभुं तापसं सच्चिदानन्दरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ३॥

श्रिया विष्टितं वामपक्षप्रकाशं सुरैर्वन्दितं ब्रह्मरुद्रस्तुतं तम् ।
शिवं शङ्करं स्वस्तिनिर्वाणरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ४॥

महायोगसाद्ध्यं परिभ्राजमानं चिरं विश्वरूपं सुरेशं महेशम् ।
अहो शान्तरूपं सदाध्यानगम्यं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ५॥

अहो मत्स्यरूपं तथा कूर्मरूपं महाक्रोडरूपं तथा नारसिंहम् ।
भजे कुब्जरूपं विभुं जामदग्न्यं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ६॥

अहो बुद्धरूपं तथा कल्किरूपं प्रभुं शाश्वतं लोकरक्षामहन्तम् ।
पृथक्काललब्धात्मलीलावतारं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ७॥

इति श्रीवेङ्कटेशभुजङ्गं सम्पूर्णम् ।

#वेङ्कटेशभुजङ्गम् #वेङ्कटेशम्

Want your school to be the top-listed School/college in Thane?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Thane
400601