14/08/2026
छात्रकल्याण-वाक्यार्थ-स्पर्धिष्णुपरिषदाम् उद्घाटनम् |
केन्द्रीय-संस्कृत-विश्वविद्यालयस्य शृङ्गेरीस्थे श्रीभारतीतीर्थशास्त्रसमुत्कर्षकेन्द्रे सोमवासरे (१० आगस्ट् २०२६) छात्रकल्याण-वाक्यार्थ-स्पर्धिष्णुपरिषदाम् उद्घाटनसमारोहः सम्पन्नः।
कार्यक्रमे मुख्यातिथित्वेन समागता: वेदविज्ञानगुरुकुलस्य प्राचार्या: आचार्य-महाबलेश्वर-भट्टवर्या: - अस्माकं दौर्बल्यं स्वयमेव विज्ञाय तदपाकरणाय प्रवर्तितव्यम् | शास्त्रज्ञानेन साकं सौशील्यामप्यासादनीयम् इति अकथयन्|
सभाध्यक्षस्थानम् अलङ्कुर्वद्भि: आचार्यैः सुब्राय वि भट्टवर्यै: - तिस्रः परिषद: अपि छात्राणां कृते एव चाल्यन्ते | विशिष्य वाग्वर्धिनीसभा छात्राणां वाक्कौशलवर्धनाय आवर्षम् आयोज्यते | अस्य प्रयोजनं छात्रैः स्वीकृत्य परिसरस्य यश: वर्धनीयमिति भणितम्|
आचार्यैः रामाचन्द्रुल बालाजिवर्यै: स्वागतं व्याहृतम्| आचार्यैः चन्द्रशेखरभट्टवर्यै: परिषत्त्रयस्य विषये परिचयपुरस्सरं प्रास्ताविकम् उपन्यस्तम् | डा. वेङ्कटरमणभट्टवर्यै: धन्यवाद: व्याहृत: | कार्यक्रमे अभ्यागतै: वाग्वर्धिनीपरिषद: सदस्येभ्य: उपायनप्रदानपूर्वकं स्वागतं व्याहृतम् |