संस्कृतभारती उत्तराञ्चलम्

  • Home
  • India
  • Haridwar
  • संस्कृतभारती उत्तराञ्चलम्

संस्कृतभारती उत्तराञ्चलम् अयं संस्कृतभारती उत्तराञ्चलस्य आधिकारिक फेसबुक-पृष्ठम् वर्तते |
(1)

विशालसंस्कृतशोभायात्रा।संस्कृतसप्ताहाचारणम्।सर्वेषां स्वागतम्।वन्दे संस्कृतमातरम्। #संस्कृतशोभायात्रा  #संस्कृतसप्ताह202...
26/08/2026

विशालसंस्कृतशोभायात्रा।
संस्कृतसप्ताहाचारणम्।
सर्वेषां स्वागतम्।
वन्दे संस्कृतमातरम्।
#संस्कृतशोभायात्रा #संस्कृतसप्ताह2026

संस्कृतसप्ताहाचरणम्|सूक्तिधरा |वन्दे संस्कृतमातरम् |   #संस्कृत  #संस्कृतसप्ताह2026
26/08/2026

संस्कृतसप्ताहाचरणम्|
सूक्तिधरा |
वन्दे संस्कृतमातरम् |
#संस्कृत #संस्कृतसप्ताह2026

25/08/2026

संस्कृतसप्ताहस्य शुभकामना:।
#संस्कृत

25/08/2026

जयतु जयतु संस्कृतभाषा। #संस्कृतसप्ताह #संस्कृत

यज्ञेन संस्कृतसप्ताहस्य शुभारम्भःसंस्कृतभाषा एव अस्माकं संस्कृतेः संपोषिका : आचार्यः हर्षपतिः घिल्डियालःदेहरादूनम्। संस्...
25/08/2026

यज्ञेन संस्कृतसप्ताहस्य शुभारम्भः

संस्कृतभाषा एव अस्माकं संस्कृतेः संपोषिका : आचार्यः हर्षपतिः घिल्डियालः

देहरादूनम्। संस्कृतभारती-देहरादूनम् तथा उत्तराखण्ड-पुरोहितसमाजस्य संयुक्ततत्त्वावधाने मङ्गलवासरे देहरादूनस्य झण्डाबाजारस्थिते तडागस्थे रामेश्वरमहादेवमन्दिरे यज्ञस्य माध्यमेन संस्कृतसप्ताहस्य शुभारम्भः कृतः। संस्कृतभाषायाः प्रचार-प्रसाराय तथा जनसामान्येषु संस्कृतभाषां प्रति अनुरागस्य जागरणाय आचरिते संस्कृतसप्ताहे “संस्कृतभारतनिर्माणं समर्थभारतसोपानम्” इति ध्येयवाक्येन आयोज्यते।

कार्यक्रमस्य अध्यक्षतां कुर्वन् उत्तराखण्ड-पुरोहितसमाजस्य अध्यक्षः आचार्यः हर्षपतिः घिल्डियालः अवदत् यत् संस्कृतभाषा अस्माकं संस्कृतेः संपोषिका अस्ति। संस्कृतभाषायाः संरक्षण-संवर्धनाय संस्कृतभारतीसंस्थया क्रियमाणानां कार्याणां प्रशंसां कुर्वन् सः अवदत् यत् उत्तराखण्ड-पुरोहितसमाजः संस्कृतस्य प्रचार-प्रसारस्य अस्मिन् अभियाने संस्कृतभारत्या सह स्कन्धेन स्कन्धं मेलयित्वा कार्यं करिष्यति। सः संस्कृतभारत्याः कार्यकर्तृभ्यः सम्मानं कृतज्ञतां च प्रकटयन् संस्कृतसप्ताहस्य सफलायोजनाय शुभकामनाः अयच्छत्।

अस्मिन् अवसरे संस्कृतभारत्याः प्रान्तश्लोकशिक्षणप्रमुखः डॉ. नवीनजसोलाः संस्कृतभाषायाः व्यावहारिकतायाः विषये प्रकाशं क्षिपन् अवदत् यत् संस्कृतभाषा केवलं धार्मिकेषु आध्यात्मिकेषु च विषयेषु सीमिता भाषा नास्ति, अपितु दैनन्दिनजीवनेऽपि तस्याः सहजः प्रयोगः कर्तुं शक्यते। संस्कृतभाषायाः प्रति जनमानसे रुचेः वर्धनाय सामूहिकप्रयत्नानाम् आवश्यकता अस्ति इति सः बलं दत्तवान्।

देहरादूनविभागस्य संयोजकः डॉ. प्रदीपः सेमवालः संस्कृतसप्ताहस्य उद्देश्यानां विविधकार्यक्रमाणां च विषये सूचनां दत्त्वा अवदत् यत् संस्कृतसप्ताहः संस्कृतभाषां जनभाषारूपेण प्रतिष्ठापयितुं तथा अधिकाधिकजनान् संस्कृतेन सह योजयितुं महत्त्वपूर्णः अवसरः अस्ति। आयोजनस्य सहयोगाय उत्तराखण्ड-पुरोहितसमाजस्य पदाधिकारिभ्यः कार्यकर्तृभ्यश्च सः आभारं प्रकटितवान्।

कार्यक्रमे उपस्थितानां उत्तराखण्ड-पुरोहितसमाजस्य सर्वेषां पदाधिकारिणां कार्यकर्तॄणां च सहयोगाय संस्कृतभारत्याः पक्षतः धन्यवादः कृतज्ञता च प्रकटिता। तत्रैव सत्रसञ्चालकः कृष्णानन्दनौडियालः अपि संस्कृतभारत्या संस्कृतभाषायाः संरक्षण-संवर्धन-प्रचार-प्रसाराय क्रियमाणानां प्रयत्नानां प्रशंसां कुर्वन् संस्थायाः कार्यकर्तृभ्यः धन्यवादं सम्मानं च प्रकटितवान्। उभयोः संस्थयोः पदाधिकारिभिः संस्कृतभाषायाः व्यापकप्रचार-प्रसाराय परस्परसहयोगेन समन्वयेन च अग्रेऽपि कार्यं कर्तुं संकल्पः व्यक्तः।

कार्यक्रमस्य शुभारम्भः मङ्गलदीपप्रज्वलनेन यज्ञेन च अभवत्। यज्ञे उपस्थितैः सर्वैः संस्कृतभाषायाः भारतीयसंस्कृतेश्च संरक्षण-संवर्धनस्य संकल्पः कृतः। कार्यक्रमस्य समापनं शान्तिमन्त्रस्य सामूहिकेन उच्चारणेन अभवत्।

अस्मिन् अवसरे प्रान्तकुटुम्बकशिक्षणप्रमुखः नागेन्द्रदत्तः व्यासः, जनपदमन्त्री माधवः पौडेलः, संरक्षकः कलशानन्दः, उपाध्यक्षः (पु.स.) सुभाषः डिमरी, संरक्षकः विनोदः कोठारी, धीरजः मैठाणी, सुबोधः उनियालः, राजेशः द्विवेदी, डॉ. बीना पुरोहिता, उर्मिला शाक्ता, सुबोधः सेमवालः, कवीन्द्रः बडोनी, विकासः भट्टः, अजयः नौटियालः, आचार्यः मनोजः, इंद्रमणिपंतः, इत्यादयः संस्कृतभारती-देहरादूनम् तथा उत्तराखण्ड-पुरोहितसमाजस्य अनेके कार्यकर्तारः उपस्थिताः आसन्।

आयोजकैः संस्कृतप्रेमिभ्यः नागरिकेभ्यः, पुरोहितेभ्यः, शिक्षकेभ्यः, विद्यार्थिभ्यः सामाजिककार्यकर्तृभ्यश्च संस्कृतसप्ताहस्य विभिन्नेषु कार्यक्रमेषु सहभागितां कृत्वा संस्कृतभाषायाः प्रचार-प्रसारस्य अस्य अभियानस्य सफलतायै योगदानं दातुम् आह्वानं कृतम्।

संस्कृतसप्ताहस्य शुभकामना: ।
25/08/2026

संस्कृतसप्ताहस्य शुभकामना: ।

संस्कृतसप्ताहाचारणम्।संस्कृतसप्ताहस्य सर्वेभ्यः शुभकामना: ।वन्दे संस्कृतमातरम्।​     #संस्कृतसप्ताह    #संस्कृतसुभाषितम्...
25/08/2026

संस्कृतसप्ताहाचारणम्।
संस्कृतसप्ताहस्य सर्वेभ्यः शुभकामना: ।
वन्दे संस्कृतमातरम्।
​ #संस्कृतसप्ताह #संस्कृतसुभाषितम्

वन्दे संस्कृतमातरम्।संस्कृतसप्ताहाचरणम्।
24/08/2026

वन्दे संस्कृतमातरम्।
संस्कृतसप्ताहाचरणम्।

Address

Shri Narayan Sewashram , Dayanand Nagri, Arya Nagar, Jwalapur
Haridwar
249407

Alerts

Be the first to know and let us send you an email when संस्कृतभारती उत्तराञ्चलम् posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category