डॉ.श्रेयांश द्विवेदी

डॉ.श्रेयांश द्विवेदी Principal advisor FORE  University GGN (propose)
Principal Edu department Govt. of HR Founder V.C.MVSU,KTL,
former Deputy chairman HSA & SB Haryana.

त्रिवर्णो ध्वजःविलसतु प्रतिगृहं धृतिमान् ।अयं त्रिवर्णो ध्वजो महान्॥शूरवीरमनुजानां शौर्यम् ।त्यागस्तपश्च बलिदानम्।सदा शा...
15/08/2026

त्रिवर्णो ध्वजः

विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥

शूरवीरमनुजानां शौर्यम् ।
त्यागस्तपश्च बलिदानम्।
सदा शाश्वतं कथयति गगने।
केसरिया वर्णो मतिमान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥1

अध्यात्मं शान्तिं विज्ञानम्।
सत्यं ज्ञानमयं सततम्।
भवतु जीवनं सर्वजनानाम्।
कथयति श्वेतः सदा महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥2

दिव्यां शस्यश्यामलां पूताम्।
नमति रत्नगर्भां विमलाम्।
प्रगतिं समुन्नतिं व्याख्याति।
हरितो वर्णः सदा महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥3

सार्वभौमिकं गगनं पश्यतु।
प्रमुदितमुदधेःमर्यादाम्।
भवतु धार्मिकस्तथा मानवः।
नीलश्चक्रो वदति महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥4

गृहं गृहं प्रति नयन्तु बालाः।
ग्रामं ग्रामं वृद्धाश्च।
वीथ्यां वीथ्यां समे युवानः।
भवतु प्रतिजनःश्रद्धावान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥5

अमृतवर्षः स्वतन्त्रतायाः।
दृढं लोकतन्त्रं कुर्वन्।
भव्यो दिव्यः सदासमर्थः।
भारतवर्षो भवतु महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥6

परमवैभवं लसतु त्रिलोके।
धर्मधुरीणो ध्वजवाही ।
सदा मानवीयो विज्ञाता।
विश्वनायकोऽसौ बलवान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥7

हिमालये शोभते त्रिवर्णः।
बद्रिकालये केदारे ।
गंगोत्र्याः यमुनोत्र्याः सलिलम्।
पुनाति सततमयं श्रीमान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥8

मनसादेव्याः सदैव शिखरे ।
भीमादेव्याः शुभालये ।
मातुस्तथा शीतलादेव्याः।
बनभौरी-परिसरे महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥9

हरिद्वारनगरे त्रिवर्णः
काश्यां भाति निरन्तरम्।
प्रयागराजे विलसति पुण्यः।
गयानगर्यामपि मतिमान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥10

देवघरे कलिकातायामपि।
मु्म्बय्यां पुर्यां नितराम्।
रामेश्वरे शारदापीठे।
भाति त्रिवर्णो ध्वजो महान् ।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥11

सोमनाथमन्दिरे विभाति।
भेंटद्वारिकायां प्रतभाति।
उडुप्यां मदुरैसुनगर्याम्।
चित्रकूटपर्वते महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥12

ज्वालामुख्याः नैनादेव्याः।
कामाख्यायाः सुमन्दिरे।
शालासरे तथा दतियायाम्।
अवधनगर्यां ध्वजो महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥13

मथुरायां कश्मीरनगर्याम्।
वैष्णव्याः सन्निकटेऽपि।
अमरनाथदेवस्य समीपे।
गगने विलसति ध्वजो महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥14

सनत्कुमारस्तथा नारदः
शिवःशंकरोऽवदन्महान्
अवदच्चन्द्रशेखरो नित्यम्।
सुभाषचन्द्रो बहु मतिमान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥15

अनुसूया सीता सावित्री
सुनीति नित्यं तथा कयाधू
उवाच राज्ञी लक्ष्मीर्मुदिता।
भवतु स्वदेशोऽयं बलवान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥16

ग्रामे ग्रामे नगरे नगरे।
गेहे गेहे जने जने।
वीथ्यां वीथ्याममरत्रिरंगो
ध्वजोत्तोलनं भवतु महान्।
विलसतु प्रतिगृहं धृतिमान् ।
अयं त्रिवर्णो ध्वजो महान्॥17

डॉ श्रेयांश द्विवेदी
संस्थापक: कुलपति:

Address

Gurugram

Telephone

+919467897361

Website

Alerts

Be the first to know and let us send you an email when डॉ.श्रेयांश द्विवेदी posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to डॉ.श्रेयांश द्विवेदी:

Shortcuts

Share