23/09/2026
केरलराज्यस्य पलक्करजिलायां स्थिते अष्टाङ्गम् आयुर्वेद-चिकित्सालयविद्यापीठे केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रपरतया आयुर्वेददिवसः संस्कृतदिवसश्च परिपालितः। कार्यक्रमेऽस्मिन् उपस्थिताः आसन् अष्टाङ्गम्-महाविद्यालयस्य प्राचार्यः डा. नारायणन्-नम्बी-महोदयः, संहितासिद्धान्तविभागस्य अध्यापिका लक्ष्मीमहोदया, श्वेतामहोदया च। तत्र संस्कृताध्ययनकेन्द्रस्य शिक्षकः श्रीविश्वरूपबेजः संस्कृतभाषायाः महत्वविषये स्वमतं प्रत्यपादयत्। सांस्कृतिककार्यक्रमोऽपि जातः, यत्र अध्यापकाः अध्यापिकाश्च मिलित्वा संस्कृतनाटकमुपास्थापयन्। अपि च छात्राः नृत्यं गीतञ्च अकुर्वन्। अस्मिन् कार्यक्रमे सर्वे छात्राः, शिक्षकाः, वैद्याश्च सोत्साहं भागम् अगृह्णन्।
PMO India
Ministry of Education
UGC
Pralhad Joshi
Shrinivasa Varakhedi
Ratna Mohan Jha
Central Sanskrit University
Samskrita Bharati