23/01/2026
वीणावादिनि !
वीणावादिनि, यच्छ सुगीतम्
हर मातर्मम निविडं तिमिरम्
देहि मनसि मे भावं रुचिरम्
येन व्यथां हर्तुं जगतां मे भवतु मनो नवनीतम्
वीणावादिनि, यच्छ सुगीतम्।
मातर्हृत्तन्त्रीं भङ्गारय,
शुभ्रविविधभावान् विस्तारय,
रक्ष जननि, मां सुस्थिरचरणं दुष्टजनैर्निर्भीतम्
वीणावादिनि, यच्छ सुगीतम्।
निर्विघ्न कुरु मे पन्थानम्,
मह्यं त्वं कुरु सुगतेर्दानम्
मानवतायाः सेवां कर्तुं भवतु मनः सप्रीतम्
वीणावादिनि, यच्छ सुगीतम्।
मातस्वमसि केवलं शरणम्,
कुरुषे त्वं मानवतोद्धरणम्।
नीर-क्षीर-विवेक-मतिं मे दत्वा हर विपरीतम्
वीणावादिनि, यच्छ सुगीतम्।
- पं. व्रजभूषण मिश्र 'आक्रान्त'