उपस्थित संस्कृतप्रेमी आणि संगीतप्रेमी रसिकजनहो कार्य़क्रमाच्या प्रारंभी ब्राह्मणसभेच्य़ा वतीने मी आपलं हार्दिक स्वागत करतो. आजचा हा नाट्यसंगीताचा कार्यक्रम म्हणजे संस्कृत रंगभूमीच्या सन्दर्भात ब्राह्मणसभेने जे य़ोगदान केलं आहे त्याचं प्रतीक आहे असं म्हटलं तर वावगं ठरणार नाही.संस्कृत रंगभूमीवरला संगीताचा सहभाग आता प्रेक्षकांनी गृहीत धरला आहे ह्याचा हा पुरावा होय. अगदी प्रारंभी जेव्हा ब्राह्मणसभेने अभिजात संस्कृत नाटकांचे प्रयोग सादर केले त्या वेळी, संगीत अभिज्ञानशाकुंतलम् किंवा संगीत मृच्छकटिकम् अशी त्यांची जाहिरात केली जात असे.त्या वेळी ,संगीत ह्या शब्दाला अनेक उच्चभ्रू मंडळी नाक मुरडत असत.कालिदासाने किंवा शूद्रकाने रचलेले श्लोक आ ऊ करून गाता कसले,ते केवळ पठन करण्यासाठी आहेत असं ह्य़ा मंडऴींचं म्हणणं होतं.ह्य़ा म्हणण्यातला फोलपणा सिध्द करत बसण्याची गरज नाही.नृत्य,संगीत,नाट्य ह्या तिन्ही कलांचा सुन्दर समन्वय संस्कृत रंगभूमीवर साधला गेलेला होता ह्याचे भरपूर ठोस पुरावे खुद्द संस्कृत नाटकांच्या संहितांमध्येच उपलब्ध आहेत.
संस्कृत भाषेत स्वाभाविकपणेच अनुस्यूत असलेली लयबध्दता आणि नादमयता ह्यांचा पुरेपुर उपयोग करून घेऊन त्याबरोबरच शब्दांची ओढाताण टाळून ,अभिजात संस्कृत नाटकातल्या वृत्तबध्द श्लोकांना भावानारूप चाली लावणे हे एक आव्हानच होतं. ते समर्थपणे पेलून दाखवलं ह्या नाटकांचे आद्य संगीत दिग्दर्शक साँलिसिटर दादासाहेब गोखले ह्यांनी.सुदैवाने त्यांना या कार्यात श्री.बाळासाहेब टीकेकर,श्री.गोविंदराव पटवर्धन,श्री.कुण्डले,श्री.अण्णासाहेब थत्ते इत्यादि मंडळीचं अमोल सहकार्य लाभलं आणि संस्कृत नाट्यसंगीत एक देखणं रूप घेऊन श्रोत्यांसमोर साकार झालं.दादासाहेब गोखल्यांनन्तर संगीत दिग्दर्शनाची ही धुरा बाळासाहेब टीकेकरांनी तेवढ्याच समर्थपणे वाहून नेली.
नान्दी
नान्दी म्हणजे संस्कृत नाटकाच्या प्रारंभी येणारा मंगल श्लोक “नान्दति देवताः अस्याम्” -जिच्या योगे देवता आनन्दित होतात ती नान्दी.ह्या श्लोकात कवि आपल्या आराध्य देवतेला आवाहन करून तिनं प्रेक्षकांचं कल्याण करावं अशी तिला विनंती करतो.ह्या कार्यक्रमाच्या प्रारंभी सादर करीत आहोत कविकुलगुरू कालिदासाच्या मालविकाग्निमित्रम् ह्या नाटकातली नान्दी .ह्या श्लोकात शिवाच्या व्यक्तिमत्त्वांत आढळून येणा-या काही विरोधाभासांचं चपखल वर्णन केलं आहे.अलोट ऎश्वर्य असल्यामुळे शंकर भक्तजनांवर उदण्ड फळांची खैरात करीत असतो पण स्वतः मात्र केवळ गजचर्म परिधान करून एखाद्या नंग्या फकीराप्रमाणे वावरत असतो,अर्धनारी नटेश्वराच्या स्वरूपात पत्नीच्या देहाशी त्याचा देह मिसळलेला असतो पण तरीही विषयोपभोगांपासून अलिप्त असलेल्या संन्याशांपेक्षाही तो वरचढ ठरतो.आपल्या अष्टमूर्तींनी तो अखिलविश्वाला आधार देतो.पण ह्याचा काडीमात्र गर्व बाळगत नाही.
ह्यानंतरचा नांदी श्लोक श्रीहर्षाच्या रत्नावली ह्या सुप्रसिध्द नाटिकेतला आहे.प्रजापतीने अपमान केल्यामुळे शंकराने केलेला त्याच्या यज्ञाचा विनाश हा ह्या श्लोकाचा वर्ण्य विषय आहे. शंकराच्या क्रोधाने धगधगलेल्या तिन्ही नेत्रांतून बाहेर पडलेल्या दृष्टीक्षेपांनी दक्षाचे तीनही अग्नि विझवून टाकले.पुरोहितांची एकच हबेलंडी उडाली.ते खाली कोसळले,आपली पागोटीही त्यांना सावरता येईनात,दक्ष स्वतः लाचार होऊन शिवाची स्तुति करू लागला,त्याची पत्नी केविलवाणा विलाप करू लागली आणि य़ज्ञासाठी निमंत्रित केलेल्या देवतांनीसुध्दा पळ काढला . स्वतः घडवून आणलेल्या ह्या विध्वंसाचं शंकर हसत हसत पार्वतीसमोर वर्णन करीत आहे पण भक्तांचा मात्र तो रक्षणकर्ता ठरो अशी ही प्रार्थना आहे.
भरतवाक्य
संस्कृत नाटकाची समाप्ति भरतवाक्याने होते.भरतवाक्य म्हणजे संस्कृत नाटकाच्या अख़ेरीस येणारा शुभेच्छापर श्लोक. भरत हा शब्द नट मंडऴींना उद्देशून आहे. नाटकाच्या शेवटी सर्व नट आपल्या भूमिका बाजूला ठेवून रंगमंचावर एकत्र येतात आणि सर्व मिळून हा श्लोक म्हणतात.अशा प्रकारे नाटककाराने नटांच्या द्वारा प्रेक्षकांना उद्देशून केलेलं शुभाशंसन म्हणजे भरतवाक्य होय. भरत हा नाट्यशास्त्राचा आद्य प्रणेता भरतमुनि ह्याच्या विषयी आदरभाव प्रकट करण्यासाठी वापरला आहे,असही काहींचं मत आहे.
आजच्या आपल्या ह्या कार्यक्रमाची सांगता आपण मृत्छकटिकम् ह्या नाटकातील भरतवाक्याने करीत आहो.गाई भरपूर देवोत,पृथ्वी सस्यश्यामला होवो,पाऊस वेऴेवर पडो,ब्राह्मण इष्ट ठरोत,सज्जनांना वैभव लाभो आणि धर्मनिष्ठ राजे पृथ्वीचा प्रतिपाऴ करोत,अशा स्वरूपाची ही शुभेच्छा आहे------‘‘क्षीरिण्य सन्तु गावो”
EXCERPTS FROM THE PROGRAMME "नांदी ते भरतवाक्य"
Professor Ramesh Vithal Kher
A teacher par excellence. A Great Sanskrit Pandit
(Recipent of Mahakavi Kaalidaas Sanskrit- Sadhanaa Award of Maharashtra State Govt.)
अथ ब्रह्मणस्पतिसूक्तम्---- ----------------- (लौकिकानुवादः)---------
प्रा. रमेश खेर
--------------------------------------------
सोममर्पितवन्तं मां प्रसिद्धं ब्रह्मणस्पते।
कुरु देवेषु कक्षीवानुशिजस्तनयो यथा ।
पूर्वं कृतस्त्वया भद्रं, भक्तानां खलु कांक्षता ॥१॥
ऐश्वर्यवांश्च रोगघ्नो वित्तवान् पुष्टिदायकः ।
अनुगृह्णातु नः शीघ्रफलदो ब्रह्मणस्पतिः ॥२॥
आगतस्य समीपं नः शत्रोः कर्तुमुपद्रवम् ।
प्राप्नोतु माभिशापो नो रक्ष त्वं ब्रह्मणस्पते ॥३॥
विधत्ते वर्धनं सोमो यस्येन्द्रो ब्रह्मणस्पतिः ।
कदाचिदपि वीरः स न नाशं याति मानवः ॥४॥
पाहि तं पातकान्मर्त्यं जनं त्वं ब्रह्मणस्पते ।
पातु तं सोम इंद्रश्च तथा देवी च दक्षिणा ॥५॥
उत्तिष्ठानुग्रहं कर्तुमस्मासु ब्रह्मणस्पते ।
देवभक्ता वयं नूनं त्वामिति प्रार्थयामहे ॥
आगच्छन्तु शुभैर्दानैर्युक्ता नो मरुतः प्रति ।
सेवस्वेंद्र च सोमं त्वं ब्रह्मणस्पतिना सह ॥६॥
सामर्थ्यात्मज संप्राप्तुं धनं हे ब्रह्मणस्पते ।
शत्रुपक्षे सुनिक्षिप्तं ममर्त्यस्त्वामेव याचते ॥
मरुतो वः समायुक्तान् ब्रह्मणस्पतिना सह ।
स्तौति यः स धनं धत्ते वाहैवीर्येण संयुतम् ॥७॥
आगच्छतु च देवोऽयं प्रति नो ब्रह्मणस्पति ।
आगचछतु च वाग्देवी सत्यार्था मधुराक्षरा ॥
दूरे कुर्वन्तु या देवा वीर्यवन्तं च वैरिणम् ।
नयन्तु नश्च संपन्नं यज्ञं जनहितार्थकम् ॥८॥
ॠत्विजे यो धनं सुष्ठु नेतव्यं संप्रयच्छति ।
लभते यजमानोऽसावक्षय्यां कीर्तिमुज्जवलाम् ॥
तत्कृते तामिलां देववीमृत्विजश्च यजामहे ।
वयं वीरैः समायुक्तामहिंस्यां शत्रुनाशिनीम् ॥९॥
यत्रेन्द्रो वरुणो मित्रो निवसत्यर्यमा तथा ।
शस्त्रार्हं तत्र तं मन्त्रं ब्रूते नो ब्रह्मणस्पतिः ॥१०॥
मन्त्रं वदाम यज्ञेषु हिंसां दोषविवर्जितम् ।
कल्याणकारिणं नित्यं सर्वसौख्यप्रदायिनम् ॥
नेतारः खलु हे देवा वाचमिच्छथ चेदिनाम् ।
मंत्ररुपाखिला वाणी रम्या वः प्राप्नुयादियम् ॥११॥
देवभक्तं नु को गच्छेद् विहाय ब्रह्मणस्पतिम् ।
छित्रदर्भं च को गच्छेद् यजमानं तथापरः ॥
ॠत्विग्भिर्यजमानश्च यज्ञभूमिं प्रतिष्ठते ।
अन्तः स्थितं गृहं चैति धनधान्यादिसंयुतम् ॥१२॥
बलं स्वात्मनि संपृक्तं विधत्ते ब्रह्मणस्पतिः ।
सहाथ राजभिः शत्रून् विनाशयति सर्वथा ॥
अवकाशे भयस्यापि न स्वं स्थानं विमुञ्चति ।
अल्पे महति वा युद्धे महाधनफलप्दे ॥
प्रवर्तने न कोऽप्यस्ति शक्तो वास्य निवर्तने ।
शस्त्रं वज्रं विनाशाय रिपूणां दधतः करे ॥१३॥
आह्वयामो गणानां त्वां पतिं गणपतिं वयम् ।
कवीनामुत्तमं श्रेष्ठं सर्वेषां कीर्तिशालिनाम् ॥
ज्येष्ठेषु राजमानं च सूक्तानां स्वामिनं तथा ।
आवाहनं च नः शृण्वत्रेहि त्वं ब्रह्मणस्पते ॥
शक्तिभी रक्षिकाभिस्ते सीदास्मिन् नूनमासने ॥१४॥
प्रकृष्टं वर्तते ज्ञानं तवासुरविनाशक ।
अत एव हविर्भागं देवा वागेषु भुञ्जते ॥
महनीयो यथा सूर्यस्तेजसा किरणांस्तथा ।
उत्पादयसि मंत्रांस्त्वं समस्तान् ब्रह्मणस्पते ॥१५॥
निन्दकानन्धकारं च दूरीकृत्य समंततः ।
आरोहसि प्रभायुक्तमृतस्य प्रापकं रथम् ॥
शत्रूणां भयदं चैव हिंसकं रक्षसामपि ।
भेदकं वारिदानां च स्वर्गलोकस्य लम्भकम् ॥१६॥
हविर्भागं ददानं ते सन्मार्गं नयसे जनम् ।
त्रायसे च तमापद्भो न तं स्पृशति पातकं ॥
मंत्रद्विषां जनानां त्वं तापकः क्रोधनाशकः ।
महनीयत्वमेतत्ते नूनमस्ति बृहस्पते ॥१७॥
सुपालको जनं यं त्वं त्रायसे ब्रह्मणस्पते ।
न च दुःखं च पापं च बाधते तं कदाचन ॥
रिपवस्तं न हिंसन्ति पीडयन्ति न वञ्चकाः ।
मनस्यन्यद् वचस्यन्यद् येषामन्यच्च कर्मणि ।
अपाकरोषि चास्मात् त्वं समस्तानपि हिंसकान् ॥१८॥
त्वं मार्गदर्शकोऽस्माकं सर्वसाक्षी च रक्षकः ।
व्रतं ते पालयन्तस्त्वां स्तुमो मन्त्रर्बृहस्पते ॥
अस्मान् प्रति च कौटिल्यं चरितुं य समीहते ।
स्वीयैव तस्य दुर्बुद्धिस्तं विनाशयतु द्रुतम् ॥१९॥
गर्वोद्धतो रिपुः सर्वभक्षको वृकसन्निभः ।
आगत्य संमुखं योऽस्मान् हिसितुं कुरुते मतिम् ॥
विभ्रष्टं कुरु मार्गात्तमस्माकं तु कृते कुरु ।
सुगमं च निराबाधं पन्थानं यज्ञगामिनम् ॥२०॥
त्रातारं नः सुतादीनामाह्वयामो बृहस्पते ।
अस्मान् कायममानं त्वामस्मत्पक्षहिते रतम् ॥
विपद्भ्यः खलु सर्वाभ्यः सदा नो रक्षणं कुरु ।
दुर्मतीनां सुखं मास्तु जहि त्वं वेदनिन्दकान् ॥२१॥
संवर्धनस्य नो हेतुः सदा त्वं ब्रह्मणस्पते ।
स्पृहणीयमतो वित्तं दातृभ्यः प्राप्तुमो वयम् ॥
दूरे वाथ समीपे ये ,शत्रवोऽभिवन्ति नः ।
नय नाशं च तान् सर्वान् दुष्टान् यज्ञविरोधिनः ॥२२॥
कामान् पूरयसेऽस्माकं निर्मलस्त्वं बृहस्पतिः ।
उत्तमं खलु चान्नादिसाहाय्यात्ते लभामहे ॥
ईष्टा मा नो रिपुः कश्चिद् दुर्बुद्धिरशिवाशयः ।
सुबुद्धयो वयं सूक्तैर्वर्धेमहि निरंतरम् ॥२३॥
त्वत्समो नास्ति दातान्यः कामानामसि वर्षिता ।
परंतपोऽसि संग्रामे रिपुसंहारकारकः ॥
सत्यप्रज्ञोऽसि भक्तानामृणेभ्यश्च विमोचकः ।
भोगच्छोर्दमने दक्षस्त्वं घोरस्य जनस्य च ॥२४॥
देवानमन्यमानो यो हिंसितुं न समीहते ।
आत्माभिमानदृप्तो यो घोरः शत्रुर्जिघांसति ॥
मायुधं तस्य नः स्प्ष्टुं क्षमं भवतु दुर्मतेः ।
उद्धतस्य वयं मन्युं नाशयामास्य दुर्हदः ।।२५॥
आह्वयन्ति स्वरक्षर्थं यं वीराः समरांगणे ।
उपासते च यं भक्ता नमस्कारेण ॥
साहायार्थां ततस्तेषां स युद्धे याति सत्वरम् ।
विविधं च धनं तेभ्यो ददात्यथ बृहस्पतिः ।
स्वामी स सरथाः सेनाः हिंसका हन्ति नो द्विषाम् ॥२६॥
आयुधेनातितीक्ष्णेन संतप्तान् कुरु राक्षसान् ।
त्वामनिंदन पुरा वीर्यं साक्षीकृत्यापि ये तव ॥
आविष्कुरू पुरा दृष्टं प्रशस्यं ते पराक्रमम् ।
निंदकान् नय नाशं च तेन शत्रून् बृहस्पते ॥२७॥
यदार्यो ब्राह्मणः कामान् सर्वान् संत्यज्य पूजयेत् ।
जनेषु भास्वरं भाति ज्ञानयुक्तं च यत्सदा ॥
दधानं यज्जनं दीप्त्या विधत्ते समलंकृतम् ।
ॠतजातं च नो देहि धनं तत् ब्रह्मवर्चसम् ॥२८॥
चौराणामथ हस्ते नो मा प्रयच्छ बृहस्पते ।
रिपवो येऽन्यधने लुब्धा द्रोहकर्मणि ये रताः ॥
वर्जयन्ति च ये देवान् सर्वथा पापकारिणः ।
रक्षोघ्नमथ ये साम न जानन्ति कदाचन ॥ २९॥
सर्वश्रेष्ठ इति त्वष्ट्रा जनितोऽसि बृहस्पते ।
साम्नां खलु च सर्वेषां त्वमुच्चारयिता कविः ॥
ॠणं च यजमानस्य त्वमाधत्सेऽखिलं स्वयम् ।
ॠणमुक्तं च तं कृत्वा हंसि तद् द्रोहकारिणः ॥३०॥
विवृत्तद्वारतां यातस्त्वदर्थे पर्वतस्ततः ।
विमोचितास्त्वया गाव आङ्गिरस बृहस्पते ॥
अधोमुखमकार्षीस्तमिन्द्रेण सहितस्तदा ।
जलराशिमयं मेघं वृत्रेण स्ववशे कृतम् ॥३१॥
संसारस्य नियन्तासि त्वं नूनं ब्रह्मणस्पते ।
निबोध सूक्तमेतन्नः पुत्रादौ प्रणयं कुरू ॥
भद्रं भवति तत् सर्वं यद् देवाः पान्ति सर्वतः ।
वदेम च सुसंताना वयं यज्ञसभास्थिताः ॥३२॥
स्वामी सर्वस्य नूनं त्वं संसारस्य बृहस्पते ।
स्तुतिमेतां प्रकृष्टां नः स्वीकर्तुं त्वं किलार्हसि ॥
बृहत्या नवया स्तुत्या त्वत्सेवायां वयं रताः ।
फलं नोऽभिमतं दातुं भूयात्ते सत्वरं मतिः ॥
असमदर्थे स्तवंस्तोता य एष त्वयि वर्षति ।
नूनं सखा त्वदीयोऽसाविति संभ्यावतां परः ॥३३॥
स्त्रीषु त्वमेका सकलासु धन्या ।
धन्यश्च गर्भस्त्वयि वर्धमानः ॥
Translated from Gospel of St.Luke (1.42)
वैयाकरणस्य प्रेमभङ्गः ।
प्रा.रमेश खेर
प्रिये प्रीतिपथे नूनं त्वं कर्ती प्रथमाभवः ।
तवेप्सिततमं कर्म द्वितीया मे मनोऽभवत् ॥१॥
तृतीया करणं कान्ताः साधिष्ठं स्मरमार्गणाः ।
चतु्र्थी संप्रदानं ते हृदयं ग्रहणोत्सुकं ॥२॥
सर्वस्वं यन्ममासीत् तन्मया तस्मै समर्पितम् ।
षष्ठीमपेक्षमाणेन संबन्धे प्रोत्कचेतसा ॥३॥
हन्त हन्त परं प्राप्तो मध्ये दैवस्य लीलया ।
विश्लेषः पञ्चमीरूपः पञ्चत्वं प्रापयन्निव ॥४॥
ममाधारोऽधुना लोके सप्तमी परमेश्वरः ।
तस्य संबोधनं कुर्वे दीनबन्धोर्दिने दिने ॥५॥
पदपरिवृत्तिः
--------- प्रा. रमेश खेर
पित्रा सहैकदा पुत्रः गच्छन् पथि व्यलोकयत् ।
आयान्तं पुरतः कंचित् पुरुषं विस्तृतोदरम् ॥१॥
विलोक्य विभवं तस्य पुत्रोऽपृच्छत् कुतूहलात् ।
स्थूलोदरो जनः कोऽयं तात याति शनैः शनैः ॥२॥
विज्ञाय तस्य जिज्ञासां जनकस्तं तदाब्रवीत् ।
उद्योगपतिरेषोऽस्ति कोऽपि नः प्रथितः पुरे ॥३॥
अथ गत्वान्तरं किञ्चित् ददर्श स सुतः पुनः ।
मन्दं मन्दं स्त्रियं काञ्चित् गच्छन्तीं गर्भमन्यराम् ॥४॥
पप्रच्छ पितरं पुत्रस्तदा जातकुतूहलः ।
किमोगपतिस्तात वर्तते पुनरायसौ ॥५॥
विहस्य स पिता पुत्रं तं मुग्धं प्रत्यभाषत ।
नोद्योगपतिरत्रासौ पत्युद्योगः पुनः स्मृतः ॥६॥
प्रशिक्षिताया अध्यापिकायाः शोकान्तिका
प्रा. रमेश खेर
आसीदध्यापिका काचिन्महोत्साहसमन्विता ।
अध्यापनकलायां या नूतनायां विशारदा ॥१॥
धेनुमुद्दिश्य सा पाठं पाठयन्त्येकदा शिशून् ।
श्रयितुं नूतनामैच्छत् पद्धतिं शास्त्रसंमताम् ॥२॥
प्रश्नानध्यापकः पृच्छेच्छात्रान् चातुर्यव्यञ्जकान् ।
तेभ्य एवोचितान्येवमुत्तराणि स आप्नुयात् ॥३॥
इत्येदात्मभूतं च तत्त्वं तत्त्वविदां मतम् ।
अध्यापनकलाया हि नूतनाया विशेषतः ॥४॥
इति निश्चित्य सा चित्ते शिक्षिकोत्फुल्लयौवना ।
निर्व्याजान् बालकानेकं प्रश्नं पृष्ठवती तदा ॥५॥
अयि भो बालका ब्रूत कोऽसावयवः किल ।
चतुःसंख्योऽस्ति यो धेनोर्द्विसंख्यस्तु पुनर्मम ॥६॥
‘पाद’ इत्युत्तरं यावदपेक्षितवती तु सा ।
‘पयोधर’ इति श्रुत्वा लज्जामूढाऽभवद् भृशम् ॥७॥
30/03/2019
उपायं चिन्तयन् प्राज्ञो ह्यपायमपि चिन्तयेत् ।
प्रा. रमेश खेर
अथैकदा स्त्रियः सर्वा उपेत्याहुः प्रजापतिम् ।
अप्रियं ख्यातुमर्थं ते वयमद्य समागताः ॥ १ ॥
ततोऽब्रवीद् विधाता ता निर्निर्बन्धं निवेद्यताम् ।
न जिव्हायन्त्रणक्लेशमर्ह्त्यायतलोचनाः ॥ २ ॥
निःसृतं बालिशं चापि वामाक्ष्या वदनाद् वचः ।
पुंसां श्रवणयोर्भाति मधुरं मधुसन्निभम् ॥ ३ ॥
इति तस्य वचः श्रृत्वा विश्रब्धा योषितस्तदा ।
सभ्रूभङ्गं च सक्रोधमित्थमाहुः सविस्तरम् ॥ ४ ॥
त्वं पितैव प्रजानां नः सर्वासामपि संस्मृतः ।
पुरुषेषु पुनस्तेऽयं पक्षपातः प्रवर्तते ॥ ५ ॥
सुखं सुरतवेलायां स्त्रीपुंसोरुभयोः समम् ।
प्रसूतेर्वेदनानां तु भाजनं केवलाऽबला ॥ ६ ॥
गर्भे तेजो दधानासौ दोहदैरतिदुःखिता ।
उद्वमन्ती परिक्षीणा सहते परमां व्यथाम् ॥ ७ ॥
नव मासान् वहन्ती च दृतिं घ्मातमिवोदरम् ।
नयतीव प्रकाशं सा स्वं व्यापारं रहोगतम् ॥ ८ ॥
पुनर्जन्मैव नारीणां प्रसूतिरिति विश्रुतम् ।
पुरुषा नैव जानन्ति गुर्वी प्रसववेदनाम् ॥ ९ ॥
तत्प्रजापतिमद्य त्वां वयं संप्रार्थयामहे ।
कृतमन्यायमस्मासु दूरीकर्तुं त्वमर्हसि ॥ १० ॥
ततश्चिरं विमृश्यासौ विधाता वाक्यमब्रवीत् ।
सम्यगस्ति मया ज्ञातं भवतीनां विविक्षितम् ॥ ११ ॥
अन्यथा तु पुनः कर्तुं प्रकृतिं रचिताभिमाम् ।
स्वयं नास्मि समर्थोऽहं कदाचिदपि सांप्रतम् ॥ १२ ॥
परिवर्तयितुं शक्या न देहरचनाधुना ।
यथापूर्वमतः सह्यो गर्भभारः स्त्रिया स्वयम् ॥ १३ ॥
परं वः प्रीतये चैतदनुतिष्ठामि सांप्रतम् ।
श्रूयतां सावधानं च कथ्यतां संमतं न वा ॥ १४ ॥
इतः परं भवेन्माता प्रसूता बालकं परम् ।
उदरे जनकस्य स्यात् तत्कालोचितवेदना ॥ १५ ॥
इत्यात्कर्ण्य परं दृष्टास्ताः स्त्रियोः मुग्धमानसाः ।
उदारः कल्प एवायमिति मत्वा गृहान् ययुः ॥ १६ ॥
अथैकदा कलत्रस्य कस्यचित् श्रेष्ठिनः क्रमात् ।
प्रसूतिसमयो नूनं प्रत्यासनन्नोऽभवद् भृशम् ॥ १७ ॥
ततश्चापेक्षमाणेन व्यथां तेनोदरे निजे ।
प्रजापतेर्वचः स्मृत्वा वैद्यश्रेष्ठा निमन्त्रिताः ॥ १८ ॥
यथाकालं च तत्पत्न्यां बालकः समजायत ।
निवेद्य श्रेष्ठिनं भृत्यो वार्तां तां समवर्धयत् ॥१९॥
ततो वार्तामिमाम् श्रुत्वा श्रेष्ठी मेने सविस्मयम् ।
अहो पुत्रः कथं जात उदरे मे व्यथां विना ॥२०॥
तन्मन्येऽहं स्त्रियो मूढा विधाता वञ्चिता ध्रुवम् ।
पुरुषोऽसौ कथं क्लेशं पुरुषाणां विधास्यति ॥२१॥
इति दृष्टः प्रविश्यासौ पाकशालां व्यलोकयत् ।
सूपकारं विसंज्ञं स्वमापीड्योदरमात्मनः ॥२२॥
सूर्यप्रकाशवत्स्पष्टम् तत्सर्वम् श्रेष्ठिनोऽभवत् ।
आत्मानं श्रेत्रिणं ज्ञात्वा विषादं स परं गतः ॥२३॥
ततस्त्रस्ताः स्त्रियः सर्वाः पुनरेत्य प्रजापतिम् ।
यथापूर्वं कुरुष्वेति प्रार्थनां विदधुश्चिरम् ॥२४॥
यथास्त्विवति समाश्वास्य ताः सर्वाः कमलोद्भवः ।
सुविचार्य कृतं सर्वं मयेत्याह च सस्मितम् ॥ २५ ॥
मुंबापुरीजीवनगाथा ------------ प्रा.रमॆश खॆर
बन्दीव गोपः कुरुते प्रबोधं द्वारार्गलं प्रातरथो निनाद्य ।
अहीरपूर्वं खलु भैरवाख्यं दुग्धेति वाग्रूपमुदीर्य रागम् ॥१॥
संस्पर्धमानं सलिलेन दुग्धं संप्रेक्ष्य वर्णान्तरमात्रभिन्नम् ।
पयःपदार्थो द्विविधोऽस्ति नीरक्षीरात्मको वाच्य इति स्मरामः ॥२॥
व्यामिश्रितं तेन कषायपेयं यद्भूतलेऽस्मिन्नमृतोपमार्हम् ।
सुप्तोस्थिता एव हि सेवमानाः सुधान्धसां नो गणनां विदध्मः ॥३॥
प्रक्षाल्य वक्त्रं च ततो गृहीत्वा कुम्भं करे तोयभृतं व्रजामः ।
विराजमानाश्च चिरं महत्त्वां स्मः शौचकुपार्थिपरम्परायाम् ॥४॥
सवृत्तपत्रा लवबोधदृप्ताः केचिच्च वृद्धा अपि बद्धकोष्ठाः ।
तथैव बाला अवशिष्टनिद्राः कूपे स्थिता नो जनयन्ति रोषम् ॥५॥
आदाय तोयं कलशार्यमेयं स्नानं विनिर्बाह्य कथंचिदेव ।
कार्यालयं द्राक् प्रतियातुकामा वासांसि दद्ध्मो रजकागतानि ॥६ ॥
स्कन्धे विशीर्णं निजमुत्तरीयं चण्डातकं वीक्ष्य च भिन्नगण्डम् ।
हस्तकलत्तस्य विदूषकाभास्तत्सीवनं रोषवशा दिशामः ॥ ७ ॥
शीघ्रं ततः स्थानकमभ्युपेत्य संप्राप्तमात्रेऽग्निरथे प्रवेष्टम् ।
यत्कूपराद्यैरपरान् प्रहृत्य प्रदर्शते वीररसः स एव ॥ ८ ।।
अंसेन चांसो हरिणीदृशो मे संघट्टमानः पुलकान् विभर्तु ।
इति प्रवासे दधतोऽभिलाषं समीपमास्ते विधवा विकेशी ॥ ९ ॥
"किं पैतृकस्तेऽग्निरथः?" "न तेऽपि " दन्तान् समूलांस्तव पातयामि" ।
इति प्रवृत्ते कलहे जनेषु चौराःकृतार्थाः सकुतुहलेषु ॥ १० ॥
विशीर्णकेशा मृतिम्बराश्च सस्वेददेहाः सकला जनाश्च ।
पिपीलिकानामिव चर्चगेटस्थानावतीर्णा दधते स्वरूपम् ॥ ११ ॥
आपन्नसत्त्वा गुरुगात्रभारं पद्भ्यां वहन्ती ननु मन्थराभ्याम् ।
कार्यालयं काचिदहो व्रजन्ती कारूण्यमूर्तिर्महिला विभाति ॥ १२ ॥
कार्यालयोऽयं च विशालकक्षश्चित्रस्वभावश्च जनास्तथात्र ।
प्रयोगशालेव विनिर्मितेयमध्यासितुं मानसशास्त्रविद्भिः ॥ १३ ॥
अबाहुचोलेन चलाञ्चलेयं विवर्धितोरोजयुगं पिधाय ।
वलीत्रयं गोचरतां नयन्ती विलोक्यतां यौवनमत्ता ॥ १४ ॥
लोकप्रियां चित्रपटाभिनेत्रीं वेषादियोगादनुकुर्वतीयम् ।
प्रीणाति सर्वान् ललितैर्वरिष्ठांस्तनोत्यवज्ञां सहकारिणां च ॥ १५ ॥
तमाखुसंचर्वणलीनचित्तो निमीलिताक्षश्च समुद्धतश्च ।
सपट्टकः सेवक एष मत्वा स्वं मन्त्रिणं प्राप्तसुखः सदास्ते ॥ १६ ॥
मन्त्रिप्रशस्त्या च वरिष्ठ एष जातः पुनः स्वाक्षरमात्रबुद्धिः ।
अश्मापि देवत्वमुपैति नूनं महानुभावैः कृतसंप्रतिष्ठः ॥ १७ ॥
इयं च बाला लघुलेखिकास्य तदर्थमेवं लघुवस्त्रभारा ।
तदङ्गुलीटङ्कितगात्रमस्याः स्मरस्य धत्ते लघुलेखलीलाम् ॥ १८ ॥
श्रेणीं तृतीयां भजमान एष उपाधिमान् कोऽप्यथ कर्मचारी ।
कविब्रुवोऽन्यायकरः समाज इति प्रकोपं प्रचुरं व्यनक्ति ॥ १९ ॥
वणिक् च वैद्यश्च तथैव बालाः शालीयशुल्कं बत याचमानाः ।
कथं समाधानमिमं हि सर्वे नेया मयेत्येति च शोकमन्यः ॥ २० ॥
सायं पुनश्चाग्निरथेन यात्रां निर्वाह्य यावद् गृहमागताः स्मः ।
तावच्च नैशस्तिमिरः प्रवृत्तः समन्ततो दृक्पदवीमुपैति ॥ २१ ॥
जग्ध्वा कदन्नं रुचिगन्धहीनं संताड्य बालान् रुदतोऽनिमित्तम् ।
आस्तीर्य शय्यां शरणं व्रजामो निद्रां निशायां च नितान्ततान्ताः ॥२२॥
एकां हि कक्षां जवनीनिधानात्कृत्वा द्विखण्डां निशि सेव्यमानम् ।
यद् दम्पतिभ्यां सहवाससौख्यं सा नीरसत्वस्य परास्ति काष्ठा ॥२३
॥
अकङ्कणप्रेङ्खणशिञ्जितश्च हीनः सरागैर्मणितानुबन्धैः ।
संरुद्धसीत्कारपरम्परश्च महोत्सवो मान्मथ एष मूकः ॥ २४ ॥
मूकेऽपि वाक्पाटवमाद्धाने पङ्गौ तथारोहति शैलशृङ्गम् ।
आत्मा तृषार्तोऽणुयुगे कृपाम्बुदयाघनात्प्रार्थयते तु दीनः ॥ २५ ॥
प्रवर्तमाने खलु शक्तिनृत्ये स्वामित्वसंपादनसस्पृहाणाम् ।
निशम्य नादं डमरोः शिवस्य कदा नु कैवल्यपदं व्रजेम ॥ २६ ॥
अथ शिवलीलामृतम्
----४-----
व्याधः - अथावतीर्णः पादपादधः साक्षात्कृतसूर्यः
असन्निवृत्यै याताः सत्त्वास्ततः कृतो मृगया
प्लवमानास्तावन्मृगशावाः प्राप्ताश्चत्वारः
मृगश्च मृग्यस्तिस्त्रः सर्वः समितः परिवारः
हरिणीः - (व्याधासन्मुखी भूत्वा )
अहं प्रसूता जातो ज़ातः सत्या मे सन्धा
हन्तुं मां शीघ्रमयं व्याधः
मृगीः - ( तां निरुध्य )
ज्येष्ठा भवती तदपस्रियतां व्याध शरं न्यस्य
मयि तृप्तायां निवृत्तायां वने पतिं प्रेक्ष्य
कुरङ्गीः - ( तां निरुध्य व्याधं चोद्दिश्य )
मारय मामेतयोः शावकाः नवजाताः सन्ति
शावकाः - (आत्मार्पणेच्छया पुरःसृत्य )
गुरोर्हितार्थे पुत्रो म्रियतामिति सरला नीतिः
मृगः - ( सर्वेषां पुरः स्थित्वा गभीररवेण )
मा सख्यो मा पुत्रा मर्तुं मा गच्छत् यूयम्
व्याध विदारय मां सर्वार्थे क्वाहं तिष्ठेयम्
व्याधः - ( पुनः निवेदयति )
प्रेमोत्पीडम् प्रेक्ष्य समूर्तं मे स्तिमितं हृदयम्
प्राणहरे प्रेमिणामाहो मृगयाच्छन्दे मौर्ख्यम्
मनसि निश्चितं निर्व्याजानां न च कार्यं हननम्
ड़मरुरवैरुपयाता तावन्मधुशुभवाक् कर्णम्
( डमरुरवविस्फूर्जध्वो युगपन्निनादः । बिल्वदलैः पूजिताल्लिङागत्सदेहः
शङ्करः प्रकटीभवति । )
शंकरः - बिल्वदलैर्मे पूजा रचिता नामजपो विहितः
उपवसता जाग्रता त्वया खलु नवमन्त्रो ज्ञातः
अशेषभूतेष्वात्मदर्शनं यत्तच्छिवदर्शनम्
त्वया न निहता मृगा यदेते तदेव शिवपूजनम्
दया त्वदीया व्याध दृश्यतां सत्पात्रे पतिता
चतुर्दशीयं माघे कृष्णे शिवरात्रिर्जाता
एहि विमानं दिष्ट्या जातं सफलं ते जननम्
लोको व्याधं तारं पश्येत्त्वां भूषय गगनम्
मृगराजोऽयं तिस्रो मृग्यः शावाश्चत्वारः
द्योतेरन् नीले नभस्तले भूत्वा मृगतारः
व्याधः - [सगद्गदम् ] शुभंकर समुद्धृतः पापः
शंकरः - त्वदभ्यन्तरे शिवो जागृतस्त्वं कथं
व्याधः - शिवलिलामृतमिदं किमथवा घटितकथावस्तु
शंकरः - तथास्तु ! तथास्तु ! तथास्तु !
समाप्त
अथ शिवलीलामृतम्
---३---
व्याधतार :- दयया भ्रष्टा मृगया त्रिदलान्युपविष्टो लूनन्
घटिकापलगणनया निशायां पन्थानं पश्यन्
[कालसूचकः संगीतखण्डः I सलिले प्रवेशितस्य पदस्य ध्वनिः]
तावद्बुद्बुद्रवमिव सहसा श्रुतवांस्तत्काले
अन्या काचन मृगी प्रविष्टा तृषाकुला सलिले
मण्ङलीकृतं धनुः सबाणम्
मनुष्यवाचा मृगी व्याहरत्तावदिदं वचनम्
मृगी : - (आर्तरवेण)
प्रार्थये न खलु बाणोऽयं व्याध मुच्यतां ते
दूरे पतिदेवः स्वामी वसति मे वनान्ते
तत्स्थलं सकृत्प्रतिगम्य
तं गाढ़महं परिरम्य
व्याहरामि शपथैः सत्यं मृत्यते निवर्ते
व्याध :- ( सप्रत्ययं )
स्वयमपि जाने प्रेमोत्कण्ठा व्रज भद्रे स्वैरम्
इहैव पुनरायाहि मिलित्वा तृप्ता भर्तारम्
मृगी :- व्याध चिरं जीव सर्वथा सौम्य चिरं जीव
प्रणम्य पतिदेवं निवर्ते द्रुतं पुनरिहैव
व्याध :- (पुनरपि निवेदयति )
माघमासि कृष्णार्ध पादपङ्क्तिः प्रेङ्खन्ती
मूढ़ा करुणां प्रेक्ष्य मदीयामासीद्विहसन्ती
( स्वल्पः संगीतखण्ड़ः I)
पर्णस्वनितं श्रुतं विलोला स्थिता ततश्छाया
सगन्धमृगरुपिणी तृतीया समागता मृगया
विनामितं कार्मुकं सबाणम्
मानववाचा मृगः स तावन्मामवदद्वचनम्
मृगी :- (आर्तरवेण )
एकं क्षणमवतात्
पतिव्रता पृच्छ्य निवर्ते प्राणान् हर पश्चात्
व्याध :- (आर्द्ररवेण )
धनुः शिथिलतं प्रेम गृहिण्याः स्मृतमेकासक्तम्
निवर्तस्व निर्वृतः प्रियापरिरम्भादित्युक्तम्
मृगी :- (सानन्दम् )
सुवीर विजयस्व
निजछाया आपृच्छ्य निवर्ते पुनरप्यत्रैव
व्याध :- प्रतियातास्ते सर्वे सत्त्वा उदितो रविसूतः
सहकारमोदः कान्तारे कनकरुचा समितः
सरसि लोचनं सरोजवृन्दं समुन्मिषद् यातम्
शिवलिङ्गेऽधो निकरमपश्यं बिल्वानां निचितम्
यानि दलान्यलुनामकणंनिशि लीलामात्रम्
त्यानि तले शिवलिङ्गे न्यपतन् शिवार्चनं घटितम्
वृक्षाग्रे मे जातो यावद्रजनीमुपवासः
कापि कुरङ्गी पुनरेता कर उद्गत इष्वासः
आकृष्टं सकलम्बकार्मुकम्
मानववाचा सा च कुरङ्गी मामवदद्वाक्यम्
कुरङ्गी :- (सानुनयम् )
मा मयि मुञ्च शरम्
आव्हयाम्यहं कथं शावकं मम स्थितं दूरम्
पूनरैमि क्षणमितो निवृत्य
स्तन्यं मे वत्साय समर्प्यं
मां संहर्तुं मुञ्च मार्गणं ततः सुखं स्वैरम्
व्याध :- (अनिर्बन्धम् ) साधय भद्रे पायय पोतं निवर्तस्व पश्चात्
सर्वे सत्त्वास्यक्ता हन्यां त्वामधुना कस्मा
कुरङ्गी :- (सानन्दम् ) व्रज नीत्यं विजयम्
प्रत्यावर्ते पुत्रकवदने विमुच्य मे स्तन्यम्
चतुर्थः प्रवेशः --------Very soon
17/03/2019
अथ शिवलिलामृतम्
-----2-------
व्याधतार : -प्रकाशशेषो विलयं यातो हरवादो विरतः
तावदहंं सैकतं कस्यचित् सरसः संप्राप्तः
मनसि मया ते सर्वेे भक्ता उपहासं नीताः
अव्यापारे भृषं रटन्तो निरर्थकं सक्ताः
सोत्प्रासं हर हरेत्यालपन् प्रारोहं पादपम्
निरूपयन्नास्थितो मृगव्यं विलम्बिनं विटपम्
निलूय निखिलं नयनरोधिनं पर्णानां भारम्
तमसि तरुतले तदा क्षिप्तवानकारणं स्वैरम्
[वृक्षारूढ़ो व्याधो विनोदननिमित्तं सहरवादं अभङगतान्
कांश्चिच्चरणान् पठति I एवं केचन् क्षणा निर्वान्ति I]
गतैक यामाभूद्ररजनी
सलिलमुपगतैका हरिणी
[कश्चित् सत्त्वः सलिलमुपगत इति सूचयन् ध्वनिः I]
आकृष्टं सशरं शरासनम्
भीता हरिणी मनुष्यवाचा मामवदद् दीनम्
हरिणी :- (आर्तवेण )
एका रे प्रार्थना
तृषितगर्भिणीं खिन्नां हन्तुं मा भूत्ते कामना
प्रसूतिवेला समीपमेता
तनुरेषा प्रतियातु चाक्षता
प्रसूय वत्सं पेलवं ततः
मुहूर्तकं तं प्रेक्ष्य विलिह्य स्वयं निवर्ते पुनः
व्याध : - कः कुर्यात्प्रत्ययम्
विप्रलभ्यते व्याधः किमयं तव खलु मरणाद् भयम्
हरिणी :- ( सनिश्चयं )
व्याध ते वदामि सशपथं मन्यतां प्रमाणम्
सुनिक्षिप्य शावं देशं निवर्तेऽत्र तूर्णंम्
प्राणहरं त्वां किं शास्त्रवचः शास्मि शूरम्
स्मृतं गर्भहननं पापं गोवधात् हि घोरम्
नाहं मरणाद् भीता तद्वने निर्विशेषम्
सुनिक्षिप्य शावं शीघ्रं निवर्तेऽत्र देशम्
व्याध :- ( सनैष्ठूर्यम् )
कथं त्वं प्रत्येतुं पात्रम्
कोमलशावं जग्ध्वा जह्यामुपवासं प्राप्तम्
पिब तोयं पश्चिमं चान्तिमं ते भवतु श्वसितम्
[आकृष्टायाः प्रत्यंचायाः ध्वनिः ]
हरिणी : - ( आर्तरवेण )
संहर मे सायकम्
सह मात्रा मा कुरु रे प्राणैर्हीनं मे पोतकम्
प्रतिश्रुतं ते यदि न करिष्ये
सप्तपूर्वसुकृतानि विधक्ष्ये
लुठिष्यामि खलु परेत्य निरये
मानव वचनं सदनभूषणं यदि चेत्ते बालकम्
व्याध : - (किञ्चित्सानुक्रोशः इव अनिच्छन्)
कोपोऽयं मम वास्ति दया
प्रसूता पुनर्द्रुतमेहि त्वं ततो भवेन्मृगया
हरिणी : - ( अत्यानन्देन)
सर्वथा चिरं जीव सदयः
प्रत्यावर्ते नियतमिह प्राग्विलयाद्यामिन्याः
TO BE CONTINUED---------3
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Address
400064